Lesser-Known Sahasranamams

Lesser-Known Sahasranamams

Sahasranamas are excellent way to gain the grace of the Deity. You are literally calling out to God by thousand beautiful names. There are Sahasranamas which many practise and chant regularly.

Sahasranamas are used for recitals, in following ways:

  • sravana, listening to recitals of names and glories of God
  • nama-sankirtana (nāma-sankīrtana), reciting the names of God either set to music or not
  • smarana, recalling divine deeds and teaching of divine deeds.
  • archana (arcanā), worshipping the divine with ritual repetition of divine names.

Here we are listing a few which are lesser known and has tremendous spiritual potency. 

1.    Ucchista Ganapathi Sahasranamam
2.    Durga Sahasranamam
3.    Hanuman Sahasranamam
4.    Surya Sahasranamam
5.    Kala Bhairav Sahasranamam
6.    Shri Sharabha Sahasranamam (given below in Sanskrit and English)
Stotras on Shiva - Part 1 Click Here
1. To learn how to do Daily Puja and Initiate your spiritual practise - Click Here
2. Hanuman Vadvanal - Detailed book on Hanuman: Lesser-known stories, sacred sadhanas of Hanuman, and many stotras for protection, money, and success. Click Here


We have provided the Shri Sharabha Sahasranama in both Sanskrit and English below. 


श्रीशरभसहस्रनामस्तोत्रम्
śrīśarabhasahasranāmastotram

श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।
देवदेव महादेव भक्तानुग्रहकारक ।
दुर्लभा शारभीविद्या गुह्याद्गुह्यतरा परा ॥ १॥
गुटिका पादुका सिद्धिस्तथा सिद्धिश्च खेचरी ।
शापानुग्रहसामर्थ्या परकायाप्रवेशने ॥ २॥
सद्यः प्रत्यक्षकामार्थं कैर्न सेव्या सुरासुरैः ।
श्रीशिव उवाच । (श्रीमहादेव उवाच)
लक्षवारसहस्राणि वारितासि पुनः पुनः ॥ ३॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
महागुह्यं महागोप्यं वाञ्छाचिन्तामणिः स्मृतम् ॥ ४॥
न वक्तव्यं त्वया देवि शापितासि ममोपरि ।
सर्वसिद्धिप्रदः साक्षात् शरभः परमेश्वरः ॥ ५॥
तस्य नामसहस्राणि तव स्नेहाद्वदामि ते ।
श‍ृणु चैकमना भूत्वा सावधानावधारय ॥ ६॥
ब्रह्मा विष्णुश्च रुद्रश्च ईशः कर्ताहमव्ययः ।
मोहनस्तम्भनाकर्षमारणोच्चाटनक्षमः ॥७॥

सिद्धिप्रदमसिद्धानां ज्ञानिनां ज्ञानसिद्धिदम् ।
मोक्षप्रदं मुमुक्षुणां नान्यथा श‍ृणु सादरम् ॥ ८॥

वन्ध्या वा काकवन्ध्या वा सद्यः पुत्रप्रदः स्त्रियाम् ।
सर्वशक्तियुतो दाता दयावान् शरभेश्वरः ॥ ९॥

तस्य नामसहस्राणि कथयामि तव प्रिये ।
ॐ अस्य श्रीशरभसहस्रनामस्तोत्रमहामन्त्रस्य,
श्रीभगवान्कालाग्निरुद्रऋषिः, विराट्छन्दः,
श्रीशरभेश्वरपक्षिराजो देवता, ॐ खं बीजं,
स्वाहा शक्तिः, फट् इति कीलकं,
मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
तत्र खां इत्यादिना कराङ्गन्यासौ कुर्यात् । तत्र मन्त्रः -
ॐ खां खां खं फट् सर्वशत्रुसंहारणाय शरभसालुवाय,
पक्षिराजाय हुं फट् स्वाहा इति मन्त्रः ।
ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥

अथ ध्यानम् ।
चन्द्रार्कौ वह्निदृष्टिः कुलिशवरनखश्चञ्चलात्युग्रजिह्वः
काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः ।
ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः
संहर्ता सर्वशत्रून्स जयति शरभः सालुवःपक्षिराजः ॥

इति ध्यानम् ।
मृगस्त्वर्द्धशरीरेण पक्षाभ्यां चञ्चुना द्विजः ।
अधोवक्त्रश्चतुःपाद ऊर्ध्ववक्त्रश्चतुर्भुजः ॥

कालान्तदहनोपम्यो नीलजीमूतनिःस्वनः ।
अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ॥

सटाछटोग्रतुण्डाय पक्षविक्षिप्तभूभृते (नमः पक्षविक्षिप्तमूर्तये) ।
अष्टपादाय रुद्राय नमः शरभमूर्तये ॥

इति ध्यात्वा नमस्कृत्य सहस्रनाम पठेदिति सहस्रनामपाठसम्प्रदायः ॥

अथ सहस्रनामानि -
ॐ श्रीं श्रीं सिद्धीश्वरः साक्षात् खें खें (खँ खँ) गर्वापहारकः ।
ह्रीं ह्रीं स्प्रें स्फ्रें ह्सौं ह्सौं ज्लूं ज्लूं पक्षिराजः प्रतापवान् ॥ १॥

ह्रौं शिवाय गिरीशाय तारः संसारपारगः ।
गतिदो मतिदः श्रीशः क्लीं क्लीं कामकलाधरः ॥ २॥

सिद्धिदः शरभो योगी स्फ्रौं शिवः सिद्धिदायकः ।
सर्वकल्मषहर्त्ता च क्रीं क्रीं कालकलाधरः ॥ ३॥

प्रीं प्रीं पीताम्बरधरो भस्मोद्धूलितविग्रहः ।
व्रीं व्रीं विष्णुसमाराध्यः सालुवः शक्तिमान्प्रभुः ॥ ४॥

वीरवीराङ्गणाराध्यो (वीरवीरो गणाराध्यो) ह्रूं ह्रूं सङ्कष्टखण्डनः ।
शङ्करः शङ्कराराध्यो श्रां श्रीं श्रूं शरभेश्वरः ॥ ५॥

ग्रीं ग्रीं गणपतिः सेव्यः पक्षिराजो महाभुजः ।
ऐं श्रीं ह्रां ह्रीं ह्सौं ह्रीं क्लीं परमात्मा सुरेश्वरः ॥ ६॥

स्वाहा श्रीदो महावीरो सर्वः सर्वैनमस्कृतः ।
ऐं क्लीं सौं ह्रौं (ह्रीं) ह्स्फ्रें (ह्व्यैं)
         ह्रैं खैं श्रैं ह्रैं परमेश्वरः ॥ ७॥

स्वाहा विद्या निधानः श्रीवामदेवः प्रतापवान् ।
ऐं ऐं वागीश्वरो देवो ह्रैं क्रैं त्रैं रक्षकः शिवः ॥ ८॥

ह्रीं (ह्रैं) फट् स्वाहा व्याघ्रचौरनाशनः सिद्धिसंयुतः ।
ब्रह्माविष्णुशिवाराध्यः ह्रीं शिवाप्राणवल्लभः ॥ ९॥

भ्रैं भ्रीं भस्मेश्वरीयुक्तो मृं मृं मृत्युजयङ्करः ।
विश्वम्भरो विश्वकर्ता विश्वभर्ता गुरोर्गुरुः ॥ १०॥

क्लैं (क्लीं) ह्रीं स्वाहा कीर्तियुक्तो ईश्वरः सकलार्थदः ।
गौरी गिरा महालक्ष्मी ह्रीं ऐं श्रीं नित्यमर्चिता ॥ ११॥

ह्लीं ह्लीं स्वाहा शिवः शम्भो वाचं वाचामगोचरः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ज्रौं ज्रौं जाग्रन्महेश्वरः ॥ १२॥

ह्रौं ह्रौं स्वाहा धौतपापः शान्तात्मा शङ्करः (शाङ्करः)खगः ।
पक्षीन्द्रो पक्षिराजश्च भक्तपक्षकरः परः ॥ १३॥

उत्कृष्टोत्कृष्टकर्ताऽऽत्मा श्रीं विश्वात्मा विभावसुः ।
क्रीं खीं खीं सुमुखानन्दो घ्रौं ख्रौं म्रौं प्रौं सनातनः ॥१४॥

ऐं स्वाहा श्रीमहादेवः सृष्टिस्थितिलयङ्करः ।
उग्रतारो महातारो वीरतारो ज्वलोज्ज्वलः ॥ १५॥

कालतारो धरो लोलजिह्वाज्वालो ज्वलोज्ज्वलः ।
श्रीं ह्रीं क्रैं ज्लूं ह्सौं स्वाहा पार्वतीशः परात्परः ॥ १६॥

वरदः साधकानाञ्च राजवश्यं प्रजावशी (ती) ।
रैं रैं ध्रैं ध्रैं धराभारो हर्ता कर्ता धुरोधसः ॥ १७॥

वेदमन्त्रार्थगूढात्मा शास्त्रमन्त्रार्थसम्मतः ।
क्रीं स्वाहा परमो दाता ॐ ॐ निर्वाणसम्पदः ॥ १८॥

क्लौं प्लौं हूं हूं शिवा स्वाहा राज्य (ज)भोगसुखप्रदः ।
सर्वसौभाग्यसंयुक्तः रां रीं रूं रक्तलोचनः ॥ १९॥

सम्पन्नाक्षो विपन्नाक्षः य्रां (प्रां) य्रीं (प्रीं) ज्रूं ज्वरमर्दनः ।
क्रीं ह्रीं हूं (ह्रूं) फट् पुनः स्वाहा देवदानवसेवितः ॥ २०॥

काली क्रीं ह्रीं शिवा दुर्गा पक्षद्वयलसच्छुभः ।
स्वाहामन्त्रान्वितः सत्यः सत्यः सत्यपराक्रमः ॥ २१॥

भीमो भयानको दक्षो द्रीं द्रूं दक्षमखापहः ।
रोगदोषहरः सिद्धः सिद्धिसाधनतत्परः ॥ २२॥

ह्रौं ह्रीं कालकालज्ञानी मानी दानी सुखावहः ।
ह्रीं फट् स्वाहा कविस्तर्कः तर्कविद्याचरः पुमान् ॥ २३॥

खर्याङ्गः खेचरीविद्या खां खीं खूं खगतेश्वरः ।
श्रीं ह्रीं स्वाहायुतो देवो राजराजो सुरेश्वरः ॥ २४॥

इच्छासिद्धीश्वरो देवो क्रियाशक्तिसमन्वितः ।
आं ईं ऊं ज्ञानसंयुक्तो भगवान्सर्वसर्वजित् ॥ २५॥

ऐं फट् स्वाहा पञ्चतत्त्वात्पञ्चतन्मात्रसायकः ।
पञ्चकूटाष्टकूटेशो शङ्करश्चन्द्रशेखरः ॥ २६॥

वां वीं वूं (व्रं) वैष्णवीविद्या श्रीं श्रीं स्वाहा धरणीधरः ।
अव्ययः सर्वकर्ताऽऽत्मा शिवः कालान्तको हरः ॥ २७॥

भूतवेतालजा बाधा शत्रुबाधा रणोद्भवा ।
ख्रैं ख्रैं (खैं खैं) ह्रूं (हूं) फट् पूर्ण
         घे घे (घें घें) सालुवाय प्रतापवान् ॥ २८॥

शीघ्रमारणदेवेशः स्वाहा चण्डपराक्रमः ।
तीक्ष्णनखं तीक्ष्णदण्ष्ट्रं तीक्ष्णरूपभयङ्करः (रम्) ॥ २९॥

तीव्रभक्तप्रतापोग्रं क्रैं ख्रौं (ख्रैं) स्वाहा स्वरूपकम् ।
सभाजितः सभामान्यः सभासंक्षोभकारकः ॥ ३०॥

क्ष्म्रौं ह्रौ (ह्रौं) क्ष्म्रौ (क्ष्म्रौं) ह्रौं
         ह्सौं ख्रौं ख्रौं सिद्धि (द्ध)मन्त्रनिवेशितः ।
 श्रीं ह्रीं स्वाहा महादेवो आदिदेवो जगन्मयः ॥ ३१॥

सत्कर्ता सत्कृतावर्तो ख्रें ख्रे (ख्रै)ङ्कारो  चिदम्बरः ।
दिगम्बरो धराधीशो छ्रीं छ्रीं स्वाहा स्वरूपधृक् ॥ ३२॥

आदिविद्या जगद्विद्या क्लूं प्लूं म्लूं ह्रूं (हूं)  सुरोन्नतः ।
वामदक्षिणतोरूपं ह्रीं श्रीं क्लीं शङ्करोऽव्ययः ॥ ३३॥

ख्रौं (ख्रैं) ख्रौं हुं (हूं) हुं (हूं)
         पुनः श्रीं श्रीं गिरिजाप्रियदर्शनः ।
स्वाहा विघ्नान्तकः (विद्यान्तकः) सेव्यः सेवाफलप्रदायकः ॥ ३४॥

च्रीं च्रीं छ्रीं क्लीं महाछद्म (द्र्य) छलहर्ता छलापहः ।
श्रीं ह्रीं स्वाहा शिवः शम्भुर्देवासुरनमस्कृतः ॥ ३५॥

कनकाङ्गदको धीरो मन्त्रतन्त्रवरप्रदः ।
मन्त्रतन्त्रपराधीनो मन्त्रतन्त्रविहारकः ॥ ३६॥

ऐं ह्रीं क्लीं मन्त्रसन्तुष्टो प्रें (फ्रें) स्वाहा परमेश्वरः ।
विश्वव्यापी चाव्ययात्मा सिद्धाचारः सुरार्चितः ॥ ३७॥

 (विश्वव्याप्यप्रमेयात्मा सिद्धाचौरैः सुरार्चितः)
ह्रीं श्रीं क्लीं कमलानन्दो कालकालो निरामयः ।
हौं (ह्रौं) शिवाय नमः स्वाहा भवानीशो भयापहः ॥ ३८॥

ज्रीं क्लीं ज्लूं ज्लूं ह्स्प्रें (ह्स्फ्रौं) ह्रौं ह्रां ह्रां हंसः स्वरूपकः ।
विकारहर्ता सर्वज्ञो सर्वशत्रुक्षयङ्करः ॥ ३९॥

हूं हूं (ह्रूं ह्रूं) स्वाहा महादेवो मुनीनां प्राणदायकः ।
स्त्रौः ह्रौं विरागी क्रोधात्मा भ्रूं भ्रूं भस्मेश्वरो हरः ॥ ४०॥

लोकपूज्यो विलोमात्मा मातृकापरि (वर्ण)चारकः ।
क्लीं त्रीं फट् श्रीं जगद्ध (द्भ)र्ता स्वाहा विश्वम्भरो हरः ॥ ४१॥

सिद्धिदातातिरक्ताक्षो रक्तजिह्वः सहस्रपात् ।
चण्डवातादिवेगात्मा ह्रीं ह्रीं क्लीं चण्डिकार्चितः ॥ ४२॥

रुण्डमालाधरः श्रीमान् ह्रौं ह्रौं स्वाहाखिलेश्वरः ।
धनधान्यागमः कर्ता कालहर्ता महेश्वरः ॥ ४३॥

खें खें हूं फट् पुनः सौं ह्रौं क्लीं स्वाहा भूतपालकः ।
भूतात्मा परात्मा च दुःखदुष्टदुरासदः (दुःखो दुष्टो दुरासदः) ॥ ४४॥

सत्यसङ्कल्पकर्ताऽऽत्मा भूतनाथोऽव्ययः शुचिः ।
ह्रीं क्रीं ह्रीं क्रीं (क्रीं क्रीं) शिवानन्दो मदिरानन्दक (न)न्दनः ॥ ४५॥

वामविद्याविहारी च क्रीं स्वाहा यक्षतर्पितः ।
ह्रीं स्वाहा खा (खां)तनुः खा (स्वा)त्मा खैं खैं हूं फट् स्वाहा तृषापहः ॥ ४६॥

क्षुधातृषा पहारी च क्षुधातृष्णा (घ्मा)विवर्धनः ।
निरञ्जनो निराकारो निर्विकारो धराधरः ॥ ४७॥

यन्त्रमन्त्रप्रतापोग्रपरकृत्याविनाशनः ।
ह्रीं ह्रीं कृत्यकरः शम्भुः परकृत्याविषापहः ॥ ४८॥

आत्मविद्याविहारी च क्षुद्रविद्याविनाशकः ।
श्रीं ग्लीं खैं (स्वैं) फट् पुनः स्वाहा शङ्खासुरविनाशनः (कः) ॥ ४९॥

त्रां त्रृं (न्रां नृं) नृसिंहतेजोग्रान् ज्वलो (ल)ज्ज्वलनवर्चसः ।
खौं खौं खां खां (खैं खां खां) पुनः
         प्रें प्रें (फ्रें फ्रें) हूं फट् स्वाहा मदापहः ॥ ५०॥

गर्वगाम्भीर्यसिंहस्य नृसिंहस्य (सर्वदुष्ट)विनाशकृत् ।
गुणोदारो गुणाधारो ह्रीं फ्रें (फ्रैं) शब्दपरायणः ॥ ५१॥

ऋषीणां सिद्धिकर्ताऽऽत्मा श्रीं स्वाहा धनदार्चितः ।
तेजोमयः सहस्राक्षो ह्रीं स्वाहा हव्यभुक् स्वराट् ॥ ५२॥

क्लीं क्लीं क्लूं क्रैं (ख्रें) ह्स्प्रें (ह्स्फ्रौं) ह्सौं ऐश्वर्यनिलोऽनलः ।
एकपादो द्विपादश्च बहुपादश्चतुष्पदः ॥ ५३॥

क्रीं स्वाहा श्री (श्रीं)हयग्रीवो वीराराधितपादुकः ।
मारीभूतमहाप्रेतवासुदेवमयो हरः ॥ ५४॥

भूतक्रीडा सुरक्रीडा क्रीडागन्धर्वकिन्नरः ।
दिव्यभोगी सुरापक्षो ह्रीं ह्रीं खां फट् परं पदः ॥ ५५॥

व्याधिहारी व्याधिहर्ता व्याधिनाशनतत्परः ।
वामी वाममार्गनिरतो सिद्धसाध्यसुसिद्धिदः ॥ ५६॥

पुष्टिदस्तुष्टिदः स्वामी समर्थः सर्ववीर्यवान् ।
ग्लौं ग्लौं ह्रीं क्लीं ह्सौं श्रीं श्रीं हूं हूं (हुं हुं) स्वाहा महेश्वरः ॥ ५७॥

एहि एहि महावीर एहि पक्षीन्द्र पक्षिराट् ।
ऐं पा (घा)ण्डुवेषो भगवान्कालरूपी कलाव (क)रः ॥ ५८॥

वरिष्ठो धनदो शिष्टा (ष्टो)विशिष्टः कुलरक्षकः ।
धर्माधिपो धर्ममूर्तिः ब्रह्म ब्रह्मविवर्द्धनः ॥ ५९॥

घां घां घों घों शनिरतो शरभः सर्वकामदः ।
फ्रैं फ्रैं श्रीं ह्रीं ह्सौं ह्रीं फट् पक्षीन्द्रो भगवान्हरः ॥ ६०॥

क्रौं क्रौं ह्रौं ह्रौं ह्सौं श्रीं ह्रीं हूं (हुं) फट् शिवङ्करः ।
शरभः कमलानन्दो उग्रोग्रः परमेश्वरः ॥ ६१॥

भू भुजङ्गमगस्तिञ्च पत्रपूजापरिग्रहः ।
मन्दारकुसुमामोदो मालतीकुसुमप्रियः ॥ ६२॥

म्लीं म्लीं श्रीं श्रीं ह्सौं ह्सौं ह्रीं ह्रीं क्लीं क्लीं इष्टार्थसिद्धिदः ।
असिताङ्गो सिताङ्गश्च पीताङ्गः परकृत्यहा ॥ ६३॥

खैं खैं स्वाहा सुरश्रेष्ठो विश्वात्मा विश्वजीवनः ।
रुरुचर्मपरीधानो रुरुभैरववन्दितः ॥ ६४॥

चण्डश्चण्डाङ्गचण्डात्मा चञ्चच्चामरवीजितः ।
हौं हौं हौं (हौ हौ) पक्षिराजाय पक्षिराजाय क्रीं स्वराट् ॥ ६५॥

श्रीं श्रीं क्लीं ह्रीं ह्सौं स्वाहा योगीशो योगिनीप्रियः ।
कर्त्ता हर्ता कालातीतो काल (कालः)सङ्कर्षणो घनः ॥ ६६॥

उन्मत्तोन्मत्तमर्दश्च (मर्द्दी च) भैरवोन्मत्तसंयुतः ।
मधुपानी मदाहारी आधारी सर्वदेहिनाम् ॥ ६७॥

मांसभक्षणकर्ताऽऽत्मा विश्वरूपी महोज्ज्वलः ।
ऐश्वर्यदाता भगवान्श्री (श्रीं) श्रीं लक्ष्म्या प्रपूजितः ॥ ६८॥

कामदेवकलारामी अभिरामी (कृतान्तः) शिवनर्तकी ।
महापापहरोदर्क (र्की)वितर्क (र्की)राज्यकृद्वशी ॥ ६९॥

श्रीं ह्रीं स्वाहेश्वरो देवो कालीदुर्गावरप्रदः ।
कौतुकी कौतुकायुक्तो कां कीं स्वाहा भयापहः ॥ ७०॥

महादेवो विरूपाक्षो शूलपाणिः पिनाकधृक् ।
शम्भुः पशुपतिर्दक्षो दीक्षितानाञ्जयङ्करः ॥ ७१॥

दां दां दीं दीं द हौं डीं डीं डिण्डिभा वानरः (वारणः) परः ।
ह्रीं स्वाहा पारगोस्वामी ढ (ठ)णड्ढणितपातकः ॥ ७२॥

ईश्वरो ईप्सितार्थाङ्गो ईं ईं एवतमातृकः ।
ह्स्प्रें (ह्स्फ्रौं) ख्फ्रें ह्सौं ह्रीं ह्रीं क्ष्म्रीं त्रीं श्रीं
कमल (मलक)द्वयलाञ्छितः ॥ ७३॥

श्रीचक्ररक्षणोद्युक्तो त्रां त्रीं (त्रीं त्री) शत्रुविमर्दनः ।
गङ्गाधरो गाधमूर्तिः श्लूं स्वाहा सर्वसम्पदः ॥ ७४॥

हरो मृत्युहरः कर्ता विधाता विश्वतोमुखः ।
एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रः पञ्चवक्त्रकः ॥ ७५॥

चतुर्वक्त्रः सप्तवक्त्रो षष्टवक्त्रोऽष्टवक्त्रगः । (तथैवश्चाष्टवक्त्रगः)
नववक्त्रो महाधीरो ह्रीं श्रीं खें खः सहस्रकः (गः) ॥ ७६॥

दशवक्त्रो महातेजो कामिनीमदभञ्जनः ।
ज्येष्ठो श्रेष्ठो महाश्रेष्ठो तथैकादशवक्त्रमि? ॥ ७७॥

सर्वेश्वरी पराकाली सुन्दरी सुरसुन्दरः ।
श्यामचञ्चुपुटो दीप्तो रक्तनेत्रो भयङ्करः ॥ ७८॥

श्मशानवासी सर्वात्मा सैन्यस्तम्भनकारकः ।
सेनानीपूजितपदो सेनापतिजयङ्करः ॥ ७९॥

फ्रों च्रीं क्लीं त्रूं (भ्रूं) तथा आं ह्रीं क्रों हूं (ह्रूं) फट् (फट्कार) स्वरूपकः ।
कार्यकर्ता कार्यवक्ता कार्यसाधनतत्परः ॥ ८०॥

श्रीं ह्रीं श्रीं क्लीं पुनः क्रीं क्रीं स्वाहा दुष्टार्थखण्डनः ।
परब्रह्मस्वरूपात्मा आत्मतत्त्वमयः पुमान् (स्वयं हरः)॥ ८१॥

विद्यातत्त्वमयो देवो शिवतत्त्वस्वयंहरः ।
सर्वतत्त्वार्थतत्त्वात्मा कामिन्याकर्षणो हरः ॥ ८२॥

क्लैं क्लैं क्लूं म्लूं (ह्रीं) ह्सूं ह्लीम् ।
श्रीं श्रीं श्रीं क्रीं क्रीं फट् परमं पदः ।
व्याधिहारी विहारी च क्रोधाद्राज्यविनाशनः ॥ ८३॥

रुधि (चि)राहारसन्तुष्टो रक्तपः (ररूपः) परमोऽव्ययः ।
पुण्यात्मा पापनष्टात्मा कालभैरवभैरवः ॥ ८४॥

द्विजिह्वः पञ्चजिह्वाख्यः सप्तजिह्वः सनातनः ।
हूं हूं हूङ्कारचेतात्मा (हूं हूं हूं वेगात्मा) खें खें खण्डायुधान्वितः ॥ ८५॥

भ्क्लीं भ्क्लीं श्रीं ह्रीं ह्सौं क्लीं क्लीं ह्रीं हूं स्वाहा महाबली ।
कपाली कपिलाधारी क्रूं क्रूं क्रूं भगवान्भवः ॥ ८६॥

सिद्ध्या (द्धा)दिसेवितः श्रीं श्रीं ह्रौं ह्रौं स्वाहा जगन्मयः ।
चिन्मयश्चित्कलाकान्तः चैतन्यात्मा प्रतापयुक् ॥ ८७॥

कूं व्रूं ह्रूं (हूं) श्रूं ह्सौं हौं हौं (ह्रौं ह्रौं) ॐ शिवाय नमः पदम् ।
त्रिनेत्रः परमानन्दो ह्रीं फट् स्वाहा सुरवरः (स्वरोवरः) ॥ ८८॥

वरदो वरदाधीशो वायुवाहनवाहकः ।
वृषभारूढसर्वात्मा हूं हूं हूं परमेश्वरः ॥ ८९॥

श्रीं ह्रीं ह्रीं ह्रीं ह्लौं क्रीं ह्रीं श्रीं श्रीं स्वाहामयो गुरुः ।
बृहस्पतिस्वरूपात्मा इन्द्रात्मा चन्द्रशेखरः ॥ ९०॥

चन्द्रचूडश्चन्द्रधारी (चन्द्रश्चन्द्रार्धधारी च) चन्द्रार्धकृतशेखरः ।
ताम्बू (ङ्का)लचर्वणीधाता रक्तदन्तः सुरोहितः ॥ ९१॥

कङ्कालधारी मुण्डात्मा रुण्डमालाधरः शिवः ।
व्याघ्राम्बरधरो धाता हर्ता संसारसागरः ॥ ९२॥

यमराजभयत्रासनाशनः सर्वकामुकः ।
भ्र (भृ)ष्टकर्ता असुरद्वेष्टा देवानामभयङ्करः ॥ ९३॥ 
सङ्ग्रामवा (चा)री धर्मात्मा सङ्ग्रामे जयवर्धनः ।
राजद्वारे सभामध्ये राजराजेश्वरः शिवः ॥ ९४॥

ह्रीं क्लैं (क्लीं) क्लीं क्लूं ह्स्प्रें (ह्स्फ्रें) ऐं मोहनः सर्वभूभुजाम् ।
विश्वरूपो विशाम्भोक्ता योगोऽष्टाङ्ग (योगाष्टाङ्ग)निषेवितः ॥ ९५॥

जयरुद्रृ (रूप) महाभाग वीरवीराधिपोज्ज्वल ।
ऐं फट् ह्रीं फट् शिवः त्रीं फट् क्रीं फट् हूं फट् करः परः ॥ ९६॥

भस्मासुरेन्द्रवरदो भस्मासुरविनाशकः ।
पञ्चावा (पञ्चांवी)नवनाथात्मा षडाधारमयो हरः ॥ ९७॥

षड्दर्शनसमः पुण्यः श्रीं ह्रीं क्लीं पुण्यदर्शकः ।
अकारादिक्षाकारान्तो वर्णमात्रार्थमात्रकः ॥ ९८॥

आं आं ईं ईं ह्लौं ह्रीं श्रीं सौः (सौं) शिवः पापखण्डनः ।
ज्रां क्लीं ज्लूं क्लीं ह्सौं सौं हौं श्रीं स्वाहा ईशः परात्परः ॥ ९९॥

एकाहिको द्व्याहिकश्च तृतीयश्च चतुर्थकः ।
सर्वज्वरहरोदर्को ज्वरबाधानिवारणः ॥ १००॥

राजचौराग्निबाधा च ह्रीं (कीं) ह्रूं शमनकारकः ।
च्रीं ह्स्फ्रैं ह्रौं ह्रीं ह्सौं (ह्रौं) ह्रीं फट् स्वाहा शङ्करशङ्करः ॥ १०१॥

महाराजाधिराजश्च राजराजोऽखिलेश्वरः ।
क्रीं छ्रौं ह्रीं फट् शिवायेति शरभाय नमो नमः ॥ १०२॥ 
भीषणाय त्रिशाशाखाय आदिमध्यान्तवर्जितः ।
आदिविद्या महाविद्या क्लीं छ्रीं ह्रीं खैं ह्स्प्रें (ह्सौं) हरः ॥ १०३॥

हूं हूं स्वाहा अमेयात्मा वरदो वरदेश्वरः ।
निष्कलङ्को वेद (यदा)वक्ता वक्ता शास्त्रस्य बुद्धिमान् ॥ १०४॥

कर्ता कारणमीशानो भूर्भुवःस्वः स्वरूपकः ।
कुल (कल)मार्गरतः कौलः कौलिकानां धनप्रदः ॥ १०५॥

सुखराशिनिधानात्मा विज्ञानघनसाधनः ।
कालौ कल्मषहर्ताऽऽत्मा दुष्टम्लेच्छविनाशनः ॥ १०६॥

हूं खें खें खें ह्रीं ह्सौं हौं श्रीं क्लीं च्रीं ह्रीं ह्रीं नमो नमः ।
स्वाहा सर्वागमाचारी (रो) विचारी परमेश्वरः ॥ १०७॥

काशी माया तथाऽयोध्या मथुरा कान्त्यवन्तिका ।
निवासी सर्वतीर्थात्मा कोटितीर्थप (प्र)दाश्रयः ॥ १०८॥

गङ्गासागरसिन्धुश्च प्रयागो पुष्करप्रियः ।
नैमिषी नैमिषारण्यी नैमिषारण्यवासिनः ॥ १०९॥

पुष्करी पुष्कराध्यक्षो कुरुक्षेत्री च कौरवः ।
गोदावरी गया चैव श्रीगिरिः पर्वताश्रयः ॥ ११०॥

गुहानिवासी भगवान् शरभः कमलेक्षणः ।
नृसिंहगर्वहर्ताऽऽत्मा शुद्धाचाररतः सदा ॥ १११॥

सर्वधर्ममयो धीरो सर्वदेव (वेद)मयः शिवः ।
ह्रीं फट् क्रीं फट् नमः खें फट् मन्त्रानां सिद्धिसम्पदः ॥ ११२॥

इति नाम्नां सहस्राख्यां शरभस्य महात्मनः ।
पूजाकाले निशिथे च मध्याह्ने प्रपठेत्प्रिये ॥ ११३॥

प्रातःकाले च सन्ध्यायां स भवेत्सम्पदां पदम् ।
भौमावस्यां चतुर्दश्यां संक्रान्तौ  रविभौमयोः ॥ ११४॥

यः पठेद्भक्तिसंयुक्तो तस्य सिद्धिर्नसंशयः ।
शनिमङ्गलवारे च उर्ध्वदृष्टिः पठेन्नरः ॥ ११५॥  
स भवेत्पार्वतीपुत्रो सर्वशास्त्रविशारदः ।
राजानो दासतां यान्ति भवेत्सर्वजनप्रियः ॥ ११६॥ 
असिताङ्गो रुरुश्चण्डो क्रोधश्चोन्मत्तभैरवः ।
कपाली भीषणश्चैव स्वयम्भैवभैरवः ॥ ११७॥ 
ये ये प्रयोगास्तन्त्रेषु तैस्तैसाधय यत्फलम् (तेषु तैस्साधयेत्फलम्) ।
तत्फलं लभते क्षिप्रं नामसाहस्रपाठतः ॥ ११८॥ 
भूतप्रेतपिशाचश्च वेताला सिद्धिचेटकाः (सिद्धचेष्टकाः ।
ते सर्वे विलयं यान्ति साधकस्यास्य दर्शनात् ॥ ११९॥ 
सिंहा ऋक्षा वानराश्च व्याघ्रास्सर्पा वराहकाः ।
गजोष्ट्राक्रूरसत्त्वाश्रयेचान्येविषधारिणः ॥ १२०॥

ते सर्वे विलयं यान्ति साधकास्यास्य दर्शनात् ।
अष्टम्यां वा चतुर्दश्यां नवम्यां गुरुसंयुतम् (तः) ॥ १२१॥

पूजयेत्परया भक्त्या स भवेत्सम्पदापदम् (भवेयुस्सर्वसम्पदाः) ।
यो निन्दां कुरुते नित्यं नामसाहस्रपाठके ॥ १२२॥

ते दुष्टा नाशमायान्ति स्वकर्मस्या (स्वकर्मणोऽ)पराधतः ।
मोहनस्तम्भनाकर्षमारणोच्चाटनादिकम् ॥ १२३॥

पाठमात्रेण सिद्ध्यन्ति एतत्सत्यं न संशयः ।
श्मशानाङ्गारमाहृत्य (नाङ्गारमादाय) सपर्यां कुजवासरे ॥ १२४॥

साध्य (ध्व)नामलिखेन्मध्ये पीतसूत्रेणवेष्टयेत् ।
निःक्षिपेच्छत्रुभवने तस्य नश्यन्ति सम्पदः ॥ १२५॥

पुत्रनाशं कीर्तिनाशं धननाशं गृहक्षयम् ।
क्षयः सर्वकुटुम्बानां भूयात्सत्यं न संशयः ॥ १२६॥

गोपनीयमिदं तन्त्रं सद्यः प्रत्ययकारकम् ।
न देयं यस्य कस्यापि दत्वा सिद्धिक्षयो भवेत् ॥ १२७॥

स्वमातृयोनिवद्गोप्या विद्यैषेत्यागमा जगुः ।
पठनीयमिदं नित्यं आत्मनः श्रेय इच्छता ।
न मुञ्चति गृहं तस्माल्लक्ष्मी वाणी सदैव हि ॥ १२८॥

॥ इति श्रीआकाशभैरवकल्पे उमामहेश्वरसंवादे
शरभेश्वरसहस्रनामस्तोत्रं सम्पूर्णम् ॥


śrīgaṇeśāya namaḥ |
śrīdevyuvāca |
devadeva mahādeva bhaktānugrahakāraka |
durlabhā śārabhīvidyā guhyādguhyatarā parā || 1||

guṭikā pādukā siddhistathā siddhiśca khecarī |
śāpānugrahasāmarthyā parakāyāpraveśane || 2||

sadyaḥ pratyakṣakāmārthaṃ kairna sevyā surāsuraiḥ |
śrīśiva uvāca | (śrīmahādeva uvāca)
lakṣavārasahasrāṇi vāritāsi punaḥ punaḥ || 3||

strīsvabhāvānmahādevi punastvaṃ paripṛcchasi |
mahāguhyaṃ mahāgopyaṃ vāñchācintāmaṇiḥ smṛtam || 4||

na vaktavyaṃ tvayā devi śāpitāsi mamopari |
sarvasiddhipradaḥ sākṣāt śarabhaḥ parameśvaraḥ || 5||

tasya nāmasahasrāṇi tava snehādvadāmi te |
śa‍्ṛṇu caikamanā bhūtvā sāvadhānāvadhāraya || 6||

brahmā viṣṇuśca rudraśca īśaḥ kartāhamavyayaḥ |
mohanastambhanākarṣamāraṇoccāṭanakṣamaḥ ||7||

siddhipradamasiddhānāṃ jñānināṃ jñānasiddhidam |
mokṣapradaṃ mumukṣuṇāṃ nānyathā śa‍्ṛṇu sādaram || 8||

vandhyā vā kākavandhyā vā sadyaḥ putrapradaḥ striyām |
sarvaśaktiyuto dātā dayāvān śarabheśvaraḥ || 9||

tasya nāmasahasrāṇi kathayāmi tava priye |
ॐ asya śrīśarabhasahasranāmastotramahāmantrasya,
śrībhagavānkālāgnirudraṛṣiḥ, virāṭchandaḥ,
śrīśarabheśvarapakṣirājo devatā, ॐ khaṃ bījaṃ,
svāhā śaktiḥ, phaṭ iti kīlakaṃ,
mama dharmārthakāmamokṣārthe jape viniyogaḥ |
tatra khāṃ ityādinā karāṅganyāsau kuryāt | tatra mantraḥ -
ॐ khāṃ khāṃ khaṃ phaṭ sarvaśatrusaṃhāraṇāya śarabhasāluvāya,
pakṣirājāya huṃ phaṭ svāhā iti mantraḥ |
ॐ bhūrbhuvaḥsvaromiti digbandhaḥ ||

atha dhyānam |
candrārkau vahnidṛṣṭiḥ kuliśavaranakhaścañcalātyugrajihvaḥ
kālī durgā ca pakṣau hṛdayajaṭharago bhairavo vāḍavāgniḥ |
ūrūsthau vyādhimṛtyū śarabhavarakhagaścaṇḍavātātivegaḥ
saṃhartā sarvaśatrūnsa jayati śarabhaḥ sāluvaḥpakṣirājaḥ ||

iti dhyānam |
mṛgastvarddhaśarīreṇa pakṣābhyāṃ cañcunā dvijaḥ |
adhovaktraścatuḥpāda ūrdhvavaktraścaturbhujaḥ ||

kālāntadahanopamyo nīlajīmūtaniḥsvanaḥ |
aristaddarśanādeva vinaṣṭabalavikramaḥ ||

saṭāchaṭogratuṇḍāya pakṣavikṣiptabhūbhṛte (namaḥ pakṣavikṣiptamūrtaye) |
aṣṭapādāya rudrāya namaḥ śarabhamūrtaye ||

iti dhyātvā namaskṛtya sahasranāma paṭhediti sahasranāmapāṭhasampradāyaḥ ||

atha sahasranāmāni -
ॐ śrīṃ śrīṃ siddhīśvaraḥ sākṣāt kheṃ kheṃ (khaँ khaँ) garvāpahārakaḥ |
hrīṃ hrīṃ spreṃ sphreṃ hsauṃ hsauṃ jlūṃ jlūṃ pakṣirājaḥ pratāpavān || 1||

hrauṃ śivāya girīśāya tāraḥ saṃsārapāragaḥ |
gatido matidaḥ śrīśaḥ klīṃ klīṃ kāmakalādharaḥ || 2||

siddhidaḥ śarabho yogī sphrauṃ śivaḥ siddhidāyakaḥ |
sarvakalmaṣaharttā ca krīṃ krīṃ kālakalādharaḥ || 3||

prīṃ prīṃ pītāmbaradharo bhasmoddhūlitavigrahaḥ |
vrīṃ vrīṃ viṣṇusamārādhyaḥ sāluvaḥ śaktimānprabhuḥ || 4||

vīravīrāṅgaṇārādhyo (vīravīro gaṇārādhyo) hrūṃ hrūṃ saṅkaṣṭakhaṇḍanaḥ |
śaṅkaraḥ śaṅkarārādhyo śrāṃ śrīṃ śrūṃ śarabheśvaraḥ || 5||

grīṃ grīṃ gaṇapatiḥ sevyaḥ pakṣirājo mahābhujaḥ |
aiṃ śrīṃ hrāṃ hrīṃ hsauṃ hrīṃ klīṃ paramātmā sureśvaraḥ || 6||

svāhā śrīdo mahāvīro sarvaḥ sarvainamaskṛtaḥ |
aiṃ klīṃ sauṃ hrauṃ (hrīṃ) hsphreṃ (hvyaiṃ)
hraiṃ khaiṃ śraiṃ hraiṃ parameśvaraḥ || 7||

svāhā vidyā nidhānaḥ śrīvāmadevaḥ pratāpavān |
aiṃ aiṃ vāgīśvaro devo hraiṃ kraiṃ traiṃ rakṣakaḥ śivaḥ || 8||

hrīṃ (hraiṃ) phaṭ svāhā vyāghracauranāśanaḥ siddhisaṃyutaḥ |
brahmāviṣṇuśivārādhyaḥ hrīṃ śivāprāṇavallabhaḥ || 9||

bhraiṃ bhrīṃ bhasmeśvarīyukto mṛṃ mṛṃ mṛtyujayaṅkaraḥ |
viśvambharo viśvakartā viśvabhartā gurorguruḥ || 10||

klaiṃ (klīṃ) hrīṃ svāhā kīrtiyukto īśvaraḥ sakalārthadaḥ |
gaurī girā mahālakṣmī hrīṃ aiṃ śrīṃ nityamarcitā || 11||

hlīṃ hlīṃ svāhā śivaḥ śambho vācaṃ vācāmagocaraḥ |
brahmaṇyo brahmakṛdbrahma jrauṃ jrauṃ jāgranmaheśvaraḥ || 12||

hrauṃ hrauṃ svāhā dhautapāpaḥ śāntātmā śaṅkaraḥ (śāṅkaraḥ)khagaḥ |
pakṣīndro pakṣirājaśca bhaktapakṣakaraḥ paraḥ || 13||

utkṛṣṭotkṛṣṭakartā''tmā śrīṃ viśvātmā vibhāvasuḥ |
krīṃ khīṃ khīṃ sumukhānando ghrauṃ khrauṃ mrauṃ prauṃ sanātanaḥ ||14||

aiṃ svāhā śrīmahādevaḥ sṛṣṭisthitilayaṅkaraḥ |
ugratāro mahātāro vīratāro jvalojjvalaḥ || 15||

kālatāro dharo lolajihvājvālo jvalojjvalaḥ |
śrīṃ hrīṃ kraiṃ jlūṃ hsauṃ svāhā pārvatīśaḥ parātparaḥ || 16||

varadaḥ sādhakānāñca rājavaśyaṃ prajāvaśī (tī) |
raiṃ raiṃ dhraiṃ dhraiṃ dharābhāro hartā kartā dhurodhasaḥ || 17||

vedamantrārthagūḍhātmā śāstramantrārthasammataḥ |
krīṃ svāhā paramo dātā ॐ ॐ nirvāṇasampadaḥ || 18||

klauṃ plauṃ hūṃ hūṃ śivā svāhā rājya (ja)bhogasukhapradaḥ |
sarvasaubhāgyasaṃyuktaḥ rāṃ rīṃ rūṃ raktalocanaḥ || 19||

sampannākṣo vipannākṣaḥ yrāṃ (prāṃ) yrīṃ (prīṃ) jrūṃ jvaramardanaḥ |
krīṃ hrīṃ hūṃ (hrūṃ) phaṭ punaḥ svāhā devadānavasevitaḥ || 20||

kālī krīṃ hrīṃ śivā durgā pakṣadvayalasacchubhaḥ |
svāhāmantrānvitaḥ satyaḥ satyaḥ satyaparākramaḥ || 21||

bhīmo bhayānako dakṣo drīṃ drūṃ dakṣamakhāpahaḥ |
rogadoṣaharaḥ siddhaḥ siddhisādhanatatparaḥ || 22||

hrauṃ hrīṃ kālakālajñānī mānī dānī sukhāvahaḥ |
hrīṃ phaṭ svāhā kavistarkaḥ tarkavidyācaraḥ pumān || 23||

kharyāṅgaḥ khecarīvidyā khāṃ khīṃ khūṃ khagateśvaraḥ |
śrīṃ hrīṃ svāhāyuto devo rājarājo sureśvaraḥ || 24||

icchāsiddhīśvaro devo kriyāśaktisamanvitaḥ |
āṃ īṃ ūṃ jñānasaṃyukto bhagavānsarvasarvajit || 25||

aiṃ phaṭ svāhā pañcatattvātpañcatanmātrasāyakaḥ |
pañcakūṭāṣṭakūṭeśo śaṅkaraścandraśekharaḥ || 26||

vāṃ vīṃ vūṃ (vraṃ) vaiṣṇavīvidyā śrīṃ śrīṃ svāhā dharaṇīdharaḥ |
avyayaḥ sarvakartā''tmā śivaḥ kālāntako haraḥ || 27||

bhūtavetālajā bādhā śatrubādhā raṇodbhavā |
khraiṃ khraiṃ (khaiṃ khaiṃ) hrūṃ (hūṃ) phaṭ pūrṇa
ghe ghe (gheṃ gheṃ) sāluvāya pratāpavān || 28||

śīghramāraṇadeveśaḥ svāhā caṇḍaparākramaḥ |
tīkṣṇanakhaṃ tīkṣṇadaṇṣṭraṃ tīkṣṇarūpabhayaṅkaraḥ (ram) || 29||

tīvrabhaktapratāpograṃ kraiṃ khrauṃ (khraiṃ) svāhā svarūpakam |
sabhājitaḥ sabhāmānyaḥ sabhāsaṃkṣobhakārakaḥ || 30||

kṣmrauṃ hrau (hrauṃ) kṣmrau (kṣmrauṃ) hrauṃ
hsauṃ khrauṃ khrauṃ siddhi (ddha)mantraniveśitaḥ |
śrīṃ hrīṃ svāhā mahādevo ādidevo jaganmayaḥ || 31||

satkartā satkṛtāvarto khreṃ khre (khrai)ṅkāro cidambaraḥ |
digambaro dharādhīśo chrīṃ chrīṃ svāhā svarūpadhṛk || 32||

ādividyā jagadvidyā klūṃ plūṃ mlūṃ hrūṃ (hūṃ) suronnataḥ |
vāmadakṣiṇatorūpaṃ hrīṃ śrīṃ klīṃ śaṅkaro'vyayaḥ || 33||

khrauṃ (khraiṃ) khrauṃ huṃ (hūṃ) huṃ (hūṃ)
punaḥ śrīṃ śrīṃ girijāpriyadarśanaḥ |
svāhā vighnāntakaḥ (vidyāntakaḥ) sevyaḥ sevāphalapradāyakaḥ || 34||

crīṃ crīṃ chrīṃ klīṃ mahāchadma (drya) chalahartā chalāpahaḥ |
śrīṃ hrīṃ svāhā śivaḥ śambhurdevāsuranamaskṛtaḥ || 35||

kanakāṅgadako dhīro mantratantravarapradaḥ |
mantratantraparādhīno mantratantravihārakaḥ || 36||

aiṃ hrīṃ klīṃ mantrasantuṣṭo preṃ (phreṃ) svāhā parameśvaraḥ |
viśvavyāpī cāvyayātmā siddhācāraḥ surārcitaḥ || 37||

(viśvavyāpyaprameyātmā siddhācauraiḥ surārcitaḥ)
hrīṃ śrīṃ klīṃ kamalānando kālakālo nirāmayaḥ |
hauṃ (hrauṃ) śivāya namaḥ svāhā bhavānīśo bhayāpahaḥ || 38||

jrīṃ klīṃ jlūṃ jlūṃ hspreṃ (hsphrauṃ) hrauṃ hrāṃ hrāṃ haṃsaḥ svarūpakaḥ |
vikārahartā sarvajño sarvaśatrukṣayaṅkaraḥ || 39||

hūṃ hūṃ (hrūṃ hrūṃ) svāhā mahādevo munīnāṃ prāṇadāyakaḥ |
strauḥ hrauṃ virāgī krodhātmā bhrūṃ bhrūṃ bhasmeśvaro haraḥ || 40||

lokapūjyo vilomātmā mātṛkāpari (varṇa)cārakaḥ |
klīṃ trīṃ phaṭ śrīṃ jagaddha (dbha)rtā svāhā viśvambharo haraḥ || 41||

siddhidātātiraktākṣo raktajihvaḥ sahasrapāt |
caṇḍavātādivegātmā hrīṃ hrīṃ klīṃ caṇḍikārcitaḥ || 42||

ruṇḍamālādharaḥ śrīmān hrauṃ hrauṃ svāhākhileśvaraḥ |
dhanadhānyāgamaḥ kartā kālahartā maheśvaraḥ || 43||

kheṃ kheṃ hūṃ phaṭ punaḥ sauṃ hrauṃ klīṃ svāhā bhūtapālakaḥ |
bhūtātmā parātmā ca duḥkhaduṣṭadurāsadaḥ (duḥkho duṣṭo durāsadaḥ) || 44||

satyasaṅkalpakartā''tmā bhūtanātho'vyayaḥ śuciḥ |
hrīṃ krīṃ hrīṃ krīṃ (krīṃ krīṃ) śivānando madirānandaka (na)ndanaḥ || 45||

vāmavidyāvihārī ca krīṃ svāhā yakṣatarpitaḥ |
hrīṃ svāhā khā (khāṃ)tanuḥ khā (svā)tmā khaiṃ khaiṃ hūṃ phaṭ svāhā tṛṣāpahaḥ || 46||

kṣudhātṛṣā pahārī ca kṣudhātṛṣṇā (ghmā)vivardhanaḥ |
nirañjano nirākāro nirvikāro dharādharaḥ || 47||

yantramantrapratāpograparakṛtyāvināśanaḥ |
hrīṃ hrīṃ kṛtyakaraḥ śambhuḥ parakṛtyāviṣāpahaḥ || 48||

ātmavidyāvihārī ca kṣudravidyāvināśakaḥ |
śrīṃ glīṃ khaiṃ (svaiṃ) phaṭ punaḥ svāhā śaṅkhāsuravināśanaḥ (kaḥ) || 49||

trāṃ trṛṃ (nrāṃ nṛṃ) nṛsiṃhatejogrān jvalo (la)jjvalanavarcasaḥ |
khauṃ khauṃ khāṃ khāṃ (khaiṃ khāṃ khāṃ) punaḥ
preṃ preṃ (phreṃ phreṃ) hūṃ phaṭ svāhā madāpahaḥ || 50||

garvagāmbhīryasiṃhasya nṛsiṃhasya (sarvaduṣṭa)vināśakṛt |
guṇodāro guṇādhāro hrīṃ phreṃ (phraiṃ) śabdaparāyaṇaḥ || 51||

ṛṣīṇāṃ siddhikartā''tmā śrīṃ svāhā dhanadārcitaḥ |
tejomayaḥ sahasrākṣo hrīṃ svāhā havyabhuk svarāṭ || 52||

klīṃ klīṃ klūṃ kraiṃ (khreṃ) hspreṃ (hsphrauṃ) hsauṃ aiśvaryanilo'nalaḥ |
ekapādo dvipādaśca bahupādaścatuṣpadaḥ || 53||

krīṃ svāhā śrī (śrīṃ)hayagrīvo vīrārādhitapādukaḥ |
mārībhūtamahāpretavāsudevamayo haraḥ || 54||

bhūtakrīḍā surakrīḍā krīḍāgandharvakinnaraḥ |
divyabhogī surāpakṣo hrīṃ hrīṃ khāṃ phaṭ paraṃ padaḥ || 55||

vyādhihārī vyādhihartā vyādhināśanatatparaḥ |
vāmī vāmamārganirato siddhasādhyasusiddhidaḥ || 56||

puṣṭidastuṣṭidaḥ svāmī samarthaḥ sarvavīryavān |
glauṃ glauṃ hrīṃ klīṃ hsauṃ śrīṃ śrīṃ hūṃ hūṃ (huṃ huṃ) svāhā maheśvaraḥ || 57||

ehi ehi mahāvīra ehi pakṣīndra pakṣirāṭ |
aiṃ pā (ghā)ṇḍuveṣo bhagavānkālarūpī kalāva (ka)raḥ || 58||

variṣṭho dhanado śiṣṭā (ṣṭo)viśiṣṭaḥ kularakṣakaḥ |
dharmādhipo dharmamūrtiḥ brahma brahmavivarddhanaḥ || 59||

ghāṃ ghāṃ ghoṃ ghoṃ śanirato śarabhaḥ sarvakāmadaḥ |
phraiṃ phraiṃ śrīṃ hrīṃ hsauṃ hrīṃ phaṭ pakṣīndro bhagavānharaḥ || 60||

krauṃ krauṃ hrauṃ hrauṃ hsauṃ śrīṃ hrīṃ hūṃ (huṃ) phaṭ śivaṅkaraḥ |
śarabhaḥ kamalānando ugrograḥ parameśvaraḥ || 61||

bhū bhujaṅgamagastiñca patrapūjāparigrahaḥ |
mandārakusumāmodo mālatīkusumapriyaḥ || 62||

mlīṃ mlīṃ śrīṃ śrīṃ hsauṃ hsauṃ hrīṃ hrīṃ klīṃ klīṃ iṣṭārthasiddhidaḥ |
asitāṅgo sitāṅgaśca pītāṅgaḥ parakṛtyahā || 63||

khaiṃ khaiṃ svāhā suraśreṣṭho viśvātmā viśvajīvanaḥ |
rurucarmaparīdhāno rurubhairavavanditaḥ || 64||

caṇḍaścaṇḍāṅgacaṇḍātmā cañcaccāmaravījitaḥ |
hauṃ hauṃ hauṃ (hau hau) pakṣirājāya pakṣirājāya krīṃ svarāṭ || 65||

śrīṃ śrīṃ klīṃ hrīṃ hsauṃ svāhā yogīśo yoginīpriyaḥ |
karttā hartā kālātīto kāla (kālaḥ)saṅkarṣaṇo ghanaḥ || 66||

unmattonmattamardaśca (marddī ca) bhairavonmattasaṃyutaḥ |
madhupānī madāhārī ādhārī sarvadehinām || 67||

māṃsabhakṣaṇakartā''tmā viśvarūpī mahojjvalaḥ |
aiśvaryadātā bhagavānśrī (śrīṃ) śrīṃ lakṣmyā prapūjitaḥ || 68||

kāmadevakalārāmī abhirāmī (kṛtāntaḥ) śivanartakī |
mahāpāpaharodarka (rkī)vitarka (rkī)rājyakṛdvaśī || 69||

śrīṃ hrīṃ svāheśvaro devo kālīdurgāvarapradaḥ |
kautukī kautukāyukto kāṃ kīṃ svāhā bhayāpahaḥ || 70||

mahādevo virūpākṣo śūlapāṇiḥ pinākadhṛk |
śambhuḥ paśupatirdakṣo dīkṣitānāñjayaṅkaraḥ || 71||

dāṃ dāṃ dīṃ dīṃ da hauṃ ḍīṃ ḍīṃ ḍiṇḍibhā vānaraḥ (vāraṇaḥ) paraḥ |
hrīṃ svāhā pāragosvāmī ḍha (ṭha)ṇaḍḍhaṇitapātakaḥ || 72||

īśvaro īpsitārthāṅgo īṃ īṃ evatamātṛkaḥ |
hspreṃ (hsphrauṃ) khphreṃ hsauṃ hrīṃ hrīṃ kṣmrīṃ trīṃ śrīṃ
kamala (malaka)dvayalāñchitaḥ || 73||

śrīcakrarakṣaṇodyukto trāṃ trīṃ (trīṃ trī) śatruvimardanaḥ |
gaṅgādharo gādhamūrtiḥ ślūṃ svāhā sarvasampadaḥ || 74||

haro mṛtyuharaḥ kartā vidhātā viśvatomukhaḥ |
ekavaktro dvivaktraśca trivaktraḥ pañcavaktrakaḥ || 75||

caturvaktraḥ saptavaktro ṣaṣṭavaktro'ṣṭavaktragaḥ | (tathaivaścāṣṭavaktragaḥ)
navavaktro mahādhīro hrīṃ śrīṃ kheṃ khaḥ sahasrakaḥ (gaḥ) || 76||

daśavaktro mahātejo kāminīmadabhañjanaḥ |
jyeṣṭho śreṣṭho mahāśreṣṭho tathaikādaśavaktrami? || 77||

sarveśvarī parākālī sundarī surasundaraḥ |
śyāmacañcupuṭo dīpto raktanetro bhayaṅkaraḥ || 78||

śmaśānavāsī sarvātmā sainyastambhanakārakaḥ |
senānīpūjitapado senāpatijayaṅkaraḥ || 79||

phroṃ crīṃ klīṃ trūṃ (bhrūṃ) tathā āṃ hrīṃ kroṃ hūṃ (hrūṃ) phaṭ (phaṭkāra) svarūpakaḥ |
kāryakartā kāryavaktā kāryasādhanatatparaḥ || 80||

śrīṃ hrīṃ śrīṃ klīṃ punaḥ krīṃ krīṃ svāhā duṣṭārthakhaṇḍanaḥ |
parabrahmasvarūpātmā ātmatattvamayaḥ pumān (svayaṃ haraḥ)|| 81||

vidyātattvamayo devo śivatattvasvayaṃharaḥ |
sarvatattvārthatattvātmā kāminyākarṣaṇo haraḥ || 82||

klaiṃ klaiṃ klūṃ mlūṃ (hrīṃ) hsūṃ hlīm |
śrīṃ śrīṃ śrīṃ krīṃ krīṃ phaṭ paramaṃ padaḥ |
vyādhihārī vihārī ca krodhādrājyavināśanaḥ || 83||

rudhi (ci)rāhārasantuṣṭo raktapaḥ (rarūpaḥ) paramo'vyayaḥ |
puṇyātmā pāpanaṣṭātmā kālabhairavabhairavaḥ || 84||

dvijihvaḥ pañcajihvākhyaḥ saptajihvaḥ sanātanaḥ |
hūṃ hūṃ hūṅkāracetātmā (hūṃ hūṃ hūṃ vegātmā) kheṃ kheṃ khaṇḍāyudhānvitaḥ || 85||

bhklīṃ bhklīṃ śrīṃ hrīṃ hsauṃ klīṃ klīṃ hrīṃ hūṃ svāhā mahābalī |
kapālī kapilādhārī krūṃ krūṃ krūṃ bhagavānbhavaḥ || 86||

siddhyā (ddhā)disevitaḥ śrīṃ śrīṃ hrauṃ hrauṃ svāhā jaganmayaḥ |
cinmayaścitkalākāntaḥ caitanyātmā pratāpayuk || 87||

kūṃ vrūṃ hrūṃ (hūṃ) śrūṃ hsauṃ hauṃ hauṃ (hrauṃ hrauṃ) ॐ śivāya namaḥ padam |
trinetraḥ paramānando hrīṃ phaṭ svāhā suravaraḥ (svarovaraḥ) || 88||

varado varadādhīśo vāyuvāhanavāhakaḥ |
vṛṣabhārūḍhasarvātmā hūṃ hūṃ hūṃ parameśvaraḥ || 89||

śrīṃ hrīṃ hrīṃ hrīṃ hlauṃ krīṃ hrīṃ śrīṃ śrīṃ svāhāmayo guruḥ |
bṛhaspatisvarūpātmā indrātmā candraśekharaḥ || 90||

candracūḍaścandradhārī (candraścandrārdhadhārī ca) candrārdhakṛtaśekharaḥ |
tāmbū (ṅkā)lacarvaṇīdhātā raktadantaḥ surohitaḥ || 91||

kaṅkāladhārī muṇḍātmā ruṇḍamālādharaḥ śivaḥ |
vyāghrāmbaradharo dhātā hartā saṃsārasāgaraḥ || 92||

yamarājabhayatrāsanāśanaḥ sarvakāmukaḥ |
bhra (bhṛ)ṣṭakartā asuradveṣṭā devānāmabhayaṅkaraḥ || 93||
saṅgrāmavā (cā)rī dharmātmā saṅgrāme jayavardhanaḥ |
rājadvāre sabhāmadhye rājarājeśvaraḥ śivaḥ || 94||

hrīṃ klaiṃ (klīṃ) klīṃ klūṃ hspreṃ (hsphreṃ) aiṃ mohanaḥ sarvabhūbhujām |
viśvarūpo viśāmbhoktā yogo'ṣṭāṅga (yogāṣṭāṅga)niṣevitaḥ || 95||

jayarudrṛ (rūpa) mahābhāga vīravīrādhipojjvala |
aiṃ phaṭ hrīṃ phaṭ śivaḥ trīṃ phaṭ krīṃ phaṭ hūṃ phaṭ karaḥ paraḥ || 96||

bhasmāsurendravarado bhasmāsuravināśakaḥ |
pañcāvā (pañcāṃvī)navanāthātmā ṣaḍādhāramayo haraḥ || 97||

ṣaḍdarśanasamaḥ puṇyaḥ śrīṃ hrīṃ klīṃ puṇyadarśakaḥ |
akārādikṣākārānto varṇamātrārthamātrakaḥ || 98||

āṃ āṃ īṃ īṃ hlauṃ hrīṃ śrīṃ sauḥ (sauṃ) śivaḥ pāpakhaṇḍanaḥ |
jrāṃ klīṃ jlūṃ klīṃ hsauṃ sauṃ hauṃ śrīṃ svāhā īśaḥ parātparaḥ || 99||

ekāhiko dvyāhikaśca tṛtīyaśca caturthakaḥ |
sarvajvaraharodarko jvarabādhānivāraṇaḥ || 100||

rājacaurāgnibādhā ca hrīṃ (kīṃ) hrūṃ śamanakārakaḥ |
crīṃ hsphraiṃ hrauṃ hrīṃ hsauṃ (hrauṃ) hrīṃ phaṭ svāhā śaṅkaraśaṅkaraḥ || 101||

mahārājādhirājaśca rājarājo'khileśvaraḥ |
krīṃ chrauṃ hrīṃ phaṭ śivāyeti śarabhāya namo namaḥ || 102||
bhīṣaṇāya triśāśākhāya ādimadhyāntavarjitaḥ |
ādividyā mahāvidyā klīṃ chrīṃ hrīṃ khaiṃ hspreṃ (hsauṃ) haraḥ || 103||

hūṃ hūṃ svāhā ameyātmā varado varadeśvaraḥ |
niṣkalaṅko veda (yadā)vaktā vaktā śāstrasya buddhimān || 104||

kartā kāraṇamīśāno bhūrbhuvaḥsvaḥ svarūpakaḥ |
kula (kala)mārgarataḥ kaulaḥ kaulikānāṃ dhanapradaḥ || 105||

sukharāśinidhānātmā vijñānaghanasādhanaḥ |
kālau kalmaṣahartā''tmā duṣṭamlecchavināśanaḥ || 106||

hūṃ kheṃ kheṃ kheṃ hrīṃ hsauṃ hauṃ śrīṃ klīṃ crīṃ hrīṃ hrīṃ namo namaḥ |
svāhā sarvāgamācārī (ro) vicārī parameśvaraḥ || 107||

kāśī māyā tathā'yodhyā mathurā kāntyavantikā |
nivāsī sarvatīrthātmā koṭitīrthapa (pra)dāśrayaḥ || 108||

gaṅgāsāgarasindhuśca prayāgo puṣkarapriyaḥ |
naimiṣī naimiṣāraṇyī naimiṣāraṇyavāsinaḥ || 109||

puṣkarī puṣkarādhyakṣo kurukṣetrī ca kauravaḥ |
godāvarī gayā caiva śrīgiriḥ parvatāśrayaḥ || 110||

guhānivāsī bhagavān śarabhaḥ kamalekṣaṇaḥ |
nṛsiṃhagarvahartā''tmā śuddhācārarataḥ sadā || 111||

sarvadharmamayo dhīro sarvadeva (veda)mayaḥ śivaḥ |
hrīṃ phaṭ krīṃ phaṭ namaḥ kheṃ phaṭ mantrānāṃ siddhisampadaḥ || 112||

iti nāmnāṃ sahasrākhyāṃ śarabhasya mahātmanaḥ |
pūjākāle niśithe ca madhyāhne prapaṭhetpriye || 113||

prātaḥkāle ca sandhyāyāṃ sa bhavetsampadāṃ padam |
bhaumāvasyāṃ caturdaśyāṃ saṃkrāntau ravibhaumayoḥ || 114||

yaḥ paṭhedbhaktisaṃyukto tasya siddhirnasaṃśayaḥ |
śanimaṅgalavāre ca urdhvadṛṣṭiḥ paṭhennaraḥ || 115||
sa bhavetpārvatīputro sarvaśāstraviśāradaḥ |
rājāno dāsatāṃ yānti bhavetsarvajanapriyaḥ || 116||
asitāṅgo ruruścaṇḍo krodhaśconmattabhairavaḥ |
kapālī bhīṣaṇaścaiva svayambhaivabhairavaḥ || 117||
ye ye prayogāstantreṣu taistaisādhaya yatphalam (teṣu taissādhayetphalam) |
tatphalaṃ labhate kṣipraṃ nāmasāhasrapāṭhataḥ || 118||
bhūtapretapiśācaśca vetālā siddhiceṭakāḥ (siddhaceṣṭakāḥ |
te sarve vilayaṃ yānti sādhakasyāsya darśanāt || 119||
siṃhā ṛkṣā vānarāśca vyāghrāssarpā varāhakāḥ |
gajoṣṭrākrūrasattvāśrayecānyeviṣadhāriṇaḥ || 120||

te sarve vilayaṃ yānti sādhakāsyāsya darśanāt |
aṣṭamyāṃ vā caturdaśyāṃ navamyāṃ gurusaṃyutam (taḥ) || 121||

pūjayetparayā bhaktyā sa bhavetsampadāpadam (bhaveyussarvasampadāḥ) |
yo nindāṃ kurute nityaṃ nāmasāhasrapāṭhake || 122||

te duṣṭā nāśamāyānti svakarmasyā (svakarmaṇo')parādhataḥ |
mohanastambhanākarṣamāraṇoccāṭanādikam || 123||

pāṭhamātreṇa siddhyanti etatsatyaṃ na saṃśayaḥ |
śmaśānāṅgāramāhṛtya (nāṅgāramādāya) saparyāṃ kujavāsare || 124||

sādhya (dhva)nāmalikhenmadhye pītasūtreṇaveṣṭayet |
niḥkṣipecchatrubhavane tasya naśyanti sampadaḥ || 125||

putranāśaṃ kīrtināśaṃ dhananāśaṃ gṛhakṣayam |
kṣayaḥ sarvakuṭumbānāṃ bhūyātsatyaṃ na saṃśayaḥ || 126||

gopanīyamidaṃ tantraṃ sadyaḥ pratyayakārakam |
na deyaṃ yasya kasyāpi datvā siddhikṣayo bhavet || 127||

svamātṛyonivadgopyā vidyaiṣetyāgamā jaguḥ |
paṭhanīyamidaṃ nityaṃ ātmanaḥ śreya icchatā |
na muñcati gṛhaṃ tasmāllakṣmī vāṇī sadaiva hi || 128||

|| iti śrīākāśabhairavakalpe umāmaheśvarasaṃvāde
śarabheśvarasahasranāmastotraṃ sampūrṇam ||

 
Back to blog

1 comment

I’m interested in the thousand names of Ucchistha Ganapati. Where to get it?

John Gomes

Leave a comment

Please note, comments need to be approved before they are published.